Saturday, August 22, 2015

चरणं पवित्रं विततं पुराणम् |

चर॑णं प॒वित्रं॒ वित॑तं पुरा॒णम् | - चरत्यनेनेति पादेन्द्रियं चरणम् | शास्त्रीयाचरणं  धर्मो वा  | तत् पवित्रं शुद्धिकारणम् | सर्वप्राणिविषयत्वेन विस्त‌ीर्णं विततम् | सृष्ट्यादिमारभ्य‌ प्रवृत्तत्वात् चिरन्तनं पुराणम् | 

येन॑ पू॒तस्तर॑ति दुष्कृ॒तानि॑ | - येन चरणेन देवेन पूतः शोधितःपुरुषो दुष्कृतानि तरति पापानि विनाशयति | 

तेन॑ प॒वित्रेण॑ शु॒द्धेन॑ पू॒ताः | अति॑ पा॒प्मान॒मरा॑तिं तरेम | -  पवित्रेणान्यस्य शोधकेन स्वयमपि शुद्धेन तेन चरणदेवेन धर्मेण पूताः  वयं पाप्मानमरातिं पापरूपं शत्रुं अतितरेम अतिशयेन लङ्घयामः | पुण्यं स्थानं गच्छेम |

अपाद्या (अपाघा ) नाम त्रिहविष्काः पञ्चेष्टयः | अपहन्यन्ते स्वर्गप्रतिबन्धाः सर्वेऽपि याभिरिष्टिभिस्ता अपाद्याःपापापघातहेतुत्वात् अपाघाः वा | स्वर्गस्य लोकस्य द्वारस्थानीया एताः | आसामाद्यन्तयोरग्न्यनुमत्योर्मध्ये पञ्च देवताः - तपः - श्रद्धा - सत्यम् - मनः - चरणम् इति | तत्र ' चरणाय चरुं ' इत्यस्य ह‌विषः पुरोनुवाक्या   इयम् |

तत्रैव याज्या -

लो॒कस्य॒ द्वार॑मर्चि॒मत्प॒वित्र॑म् | - लोकस्य द्वारं स्वर्गस्य द्वारवत्प्रवेशसाधनम् | अर्चिमदर्चनायुक्तं सर्वैः पूज्यम् | पवित्रं शोधकम् |

ज्योति॑ष्म॒द्भ्राज॑मानं॒ मह॑स्वत् | - ज्योतिष्मत् दीप्तिमत्  ज्योतिषमत्त्विषा प्रकाशनसामर्थ्योपेतं भ्राजमानं स्वय‌मपि दीप्यमानं म‌हस्वन्माहात्म्ययुक्तम् |

अ॒मृत॑स्य॒ धारा॑ बहु॒ध‌ा दोह॑मानम् | - पीयूषस्य धारा अनेकप्रकारेण संपादनशीलम् |

चर॑णं नो लो॒के सुधि॑तां दधातु | - एतच्चरण‌ाख्यं देवत‌ास्वरूपं तदेतन्नोऽस्माकं स्वर्गलोके सुधितां सुखयुक्तामवस्थितिं दधातु |




No comments:

Post a Comment