Sunday, August 23, 2015

प्रभवादि षष्टि संवत्सर नामानि

१. प्रभवः
२.विभवः
३.शुक्लः
४.प्रमोद्युतः
५.प्रजोत्पत्तिः
६.आङ्गिरसः
७.श्रीमुखम्
८.भवः
९.युवा
१०.धातुः
११.ईश्वरः
१२.बहुधान्यः
१३.प्रमाथी
१४.विक्रमः
१५.वृषः
१६.चित्रभानुः
१७.स्वभानुः
१८.तारणः
१९.पार्थिवः
२०.व्ययः
२१.सर्वजित्
२२.सर्वधारी
२३.विरोधी
२४.विकृतिः
२५.खरः
२६.नन्दनः
२७.विजयः
२८.जयः
२९.मन्मथः
३०.दुर्मुखः
३१.हेविलम्बी
३२.विलम्बी
३३.विकारी
३४.शार्वरी
३५.प्लवः
३६.शुभकृत्
३७.शोभकृत्
३८.क्रोधी
३९.विश्वावसुः
४०.पराभवः
४१.प्लवङ्गः
४२.कीलकम्
४३.सौम्यः
४४.साधारणः
४५.विरोधिकृत्
४६.परितापी
४७.प्रमादी
४८.आनन्दः
४९.राक्षसः
५०.नलः
५१.पिङ्गलः
५२.कालयुक्तिः
५३.सिद्धार्थी
५४.रौद्री
५५.दुर्मतिः
५६.दुन्दुभिः
५७.रुधिरोद्गारी
५८.रक्ताक्षी
५९.क्रोधनः
६०.अक्षयः

Saturday, August 22, 2015

चरणं पवित्रं विततं पुराणम् |

चर॑णं प॒वित्रं॒ वित॑तं पुरा॒णम् | - चरत्यनेनेति पादेन्द्रियं चरणम् | शास्त्रीयाचरणं  धर्मो वा  | तत् पवित्रं शुद्धिकारणम् | सर्वप्राणिविषयत्वेन विस्त‌ीर्णं विततम् | सृष्ट्यादिमारभ्य‌ प्रवृत्तत्वात् चिरन्तनं पुराणम् | 

येन॑ पू॒तस्तर॑ति दुष्कृ॒तानि॑ | - येन चरणेन देवेन पूतः शोधितःपुरुषो दुष्कृतानि तरति पापानि विनाशयति | 

तेन॑ प॒वित्रेण॑ शु॒द्धेन॑ पू॒ताः | अति॑ पा॒प्मान॒मरा॑तिं तरेम | -  पवित्रेणान्यस्य शोधकेन स्वयमपि शुद्धेन तेन चरणदेवेन धर्मेण पूताः  वयं पाप्मानमरातिं पापरूपं शत्रुं अतितरेम अतिशयेन लङ्घयामः | पुण्यं स्थानं गच्छेम |

अपाद्या (अपाघा ) नाम त्रिहविष्काः पञ्चेष्टयः | अपहन्यन्ते स्वर्गप्रतिबन्धाः सर्वेऽपि याभिरिष्टिभिस्ता अपाद्याःपापापघातहेतुत्वात् अपाघाः वा | स्वर्गस्य लोकस्य द्वारस्थानीया एताः | आसामाद्यन्तयोरग्न्यनुमत्योर्मध्ये पञ्च देवताः - तपः - श्रद्धा - सत्यम् - मनः - चरणम् इति | तत्र ' चरणाय चरुं ' इत्यस्य ह‌विषः पुरोनुवाक्या   इयम् |

तत्रैव याज्या -

लो॒कस्य॒ द्वार॑मर्चि॒मत्प॒वित्र॑म् | - लोकस्य द्वारं स्वर्गस्य द्वारवत्प्रवेशसाधनम् | अर्चिमदर्चनायुक्तं सर्वैः पूज्यम् | पवित्रं शोधकम् |

ज्योति॑ष्म॒द्भ्राज॑मानं॒ मह॑स्वत् | - ज्योतिष्मत् दीप्तिमत्  ज्योतिषमत्त्विषा प्रकाशनसामर्थ्योपेतं भ्राजमानं स्वय‌मपि दीप्यमानं म‌हस्वन्माहात्म्ययुक्तम् |

अ॒मृत॑स्य॒ धारा॑ बहु॒ध‌ा दोह॑मानम् | - पीयूषस्य धारा अनेकप्रकारेण संपादनशीलम् |

चर॑णं नो लो॒के सुधि॑तां दधातु | - एतच्चरण‌ाख्यं देवत‌ास्वरूपं तदेतन्नोऽस्माकं स्वर्गलोके सुधितां सुखयुक्तामवस्थितिं दधातु |




ॐ श्री गणेशाय नमः

श्री गुरुभ्यो नमः